१ थिषलनीकिनः पत्रं
Ⅰ
Ⅰ पौलः सिल्वानस्तीमथियश्च पितुरीश्वरस्य प्रभो र्यीशुख्रीष्टस्य चाश्रयं प्राप्ता थिषलनीकीयसमितिं प्रति पत्रं लिखन्ति। अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रत्यनुग्रहं शान्तिञ्च क्रियास्तां।
Ⅱ वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः,
Ⅲ अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते
Ⅳ तत् सर्व्वं निरन्तरं स्मरामश्च। हे पियभ्रातरः, यूयम् ईश्वरेणाभिरुचिता लोका इति वयं जानीमः।
Ⅴ यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।
Ⅵ यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।
Ⅶ तेन माकिदनियाखायादेशयो र्यावन्तो विश्वासिनो लोकाः सन्ति यूयं तेषां सर्व्वेषां निदर्शनस्वरूपा जाताः।
Ⅷ यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।
Ⅸ यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं
Ⅹ मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।